्श्री संकष्ट नाशन् गणेश स्तोत्रम्
इस स्तोत्र का पाठ करने से सारे संकट का नाश होता है और जो व्यक्ति नित्य प्रति ६ महिने पाठ करता है उसे सिध्दि मिल जाती है इसमें कोई संदेह नहीं है नारद पुराण में स्पष्ट लिखा है
इसलिए इसका नित्य प्रति पाठ करना चाहिए।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तावासं स्मरेनित्यमायुष्कामार्थसिध्दये।। प्रथमं वक्र तुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।। लम्बोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्दरं धूम्रवर्णं तथाष्टमम्।। नवमं भालचन्द्रं च दशमं तु विनायकम्। एकादशं गणपतिं व्दादशं तु गजाननम्।। व्दादशैतानि नामानि त्रिसन्ध्यं य: पठेन्नर:। न च विघ्नभयं तस्य सर्व सिध्दिकरंपरम्।। विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।। जपेद् गणपति स्त्रोतं षड्भिर्मासै: फलं लभेत्। संवत्सरेण सिध्दिं च लभते नात्र संशय:।। ् अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्। तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादत:।। श्री नारदपुराणे संकष्ट नाशनं नाम गणेशस्तोंत्रं संपूर्णम् ।।
No comments:
Post a Comment